मंगलमय संस्कृत श्लोक
सत्यमेकं परो धर्मः सत्यमेकं परं तपः।
सत्यमेकं परं ज्ञानं सत्ये धर्मः प्रतिष्ठितः।।
धर्ममूलमहिंसा च मनसा तां च चिन्तयन्।
कर्मणा च तथा वाचा तत एतां समाचरेत्।।
मषीभाजनसंयुक्तश्चरसि त्वं महीतले
लेखनी कटिनीहस्ते चित्रगुप्त नमोऽस्तुते |
चित्रगुप्त नमस्तुभ्यं लेखकाक्षरदायकम् कायस्थजातिमासाद्य चित्रगुप्त नमोऽस्तुते ||
“नाक्षैः क्रीडेत् कदाचित्तु स्वयं नोपानहौ हरेत् !
शयनस्थो न भुञ्जीत न पाणिस्थं न चासने !!”
मसिभाजनसंयुक्तं ध्यायेत्तं च महाबलम्।
लेखिनीपट्टिकाहस्तं चित्रगुप्तं नमाम्यहम्।।